Vatakopa karana: A.Hridaya
Sloka
धातुक्षयकरैर्वायुः कुप्यत्यतिनिषेवितैः||५||
चरन् स्रोतःसु रिक्तेषु भृशं तान्येव पूरयन्|
तेभ्योऽन्यदोषपूर्णेभ्यः प्राप्य वाऽऽवरणं बली||६||
चरन् स्रोतःसु रिक्तेषु भृशं तान्येव पूरयन्|
तेभ्योऽन्यदोषपूर्णेभ्यः प्राप्य वाऽऽवरणं बली||६||
सर्वाङ्गसुन्दरी व्याख्या
धातुक्षयकरैराहारविहारादिभिरतिनिषेवितैः-अतिमात्रसेवितैश्चिरकालसेवितैश्च, पवनः कुप्यति| किं कुर्वन् ? स्रोतःसु रिक्तेषु चरन्,-धातुक्षयकरातिसेवनात्, यतस्तदानीं स्रोतसां शून्यता भवति| तथाभूतेषु स्रोतःसु प्रभञ्जनस्तदन्तः प्रविशंस्तान्येव स्रोतांसि रिक्तानि भृशं पूरयन्नेवं धातुक्षयात् कुप्यति मरुत्| तथा तेभ्यः स्रोतोभ्योऽन्यदोषपूर्णेभ्य आवरणं प्राप्य बली वायुरेवं वा कुप्यति|
Reference
अष्टाङ्गहृदयम् निदानस्थानम् - १५. वातव्याधिनिदानध्यायः