Akshepakavyadhi lakshana: A.Hridaya

Sloka

यदा तु धमनीः सर्वाः क्रुद्धोऽभ्येति मुहुर्मुहुः||१६||
तदाऽङ्गमाक्षिपत्येष व्याधिराक्षेपकः स्मृतः|

सर्वाङ्गसुन्दरी व्याख्या

यदा तु सर्वा धमनीर्वायुः क्रुद्धोऽभ्येति-आभिमुख्येनागच्छति, पुनःपुनस्तदाऽङ्गं-शरीरं, आक्षिपति-आक्रमति, एष वातव्याधिराक्षेपकः स्मृतः|

Reference

अष्टाङ्गहृदयम् निदानस्थानम् - १५. वातव्याधिनिदानध्यायः