Apatantraka duschikitsyatva: A.Hridaya
Sloka
गर्भपातसमुत्पन्नः शोणितातिस्रवोत्थितः|
अभिघातसमुत्थश्च दुश्चिकित्स्यतमो हि सः||२१||
अभिघातसमुत्थश्च दुश्चिकित्स्यतमो हि सः||२१||
सर्वाङ्गसुन्दरी व्याख्या
स चाकालगर्भपातात्समनन्तरं योषितां प्रायो जायते| कदाचिच्छोणितातिस्रवात् स्त्रीणां पुरुषाणां च, अभिघाताच्च स्यात्| सः-अपतन्त्रको, गर्भपातसमुत्पन्नो दुश्चिकित्स्यः स्यात्, शोणितातिस्रवोत्थितो दुश्चिकित्स्यतरः, अभिघातसमुत्थो दुश्चिकित्स्यतमः|
Reference
अष्टाङ्गहृदयम् निदानस्थानम् - १५. वातव्याधिनिदानध्यायः