Apatantraka lakshana: A.Hridaya
Sloka
अधः प्रतिहतो वायुर्व्रजन्नूर्ध्वं हृदाश्रिताः||१७||
नाडीः प्रविश्य हृदयं शिरः शङ्खौ च पीडयन्|
आक्षिपेत्परितो गात्रं धनुर्वच्चास्य नामयेत्||१८||
कृच्छ्रादुच्छ्वसिति स्तब्धस्रस्तमीलितदृक्ततः|
कपोत इव कृजेच्च निःसंज्ञः सोऽपतन्त्रकः||१९||
स एव चापतानाख्यो मुक्ते तु मरुता हृदि|
अश्र्नुवीत मुहुः स्वास्थ्यं मुहुरस्वास्थ्यमावृते||२०||

सर्वाङ्गसुन्दरी व्याख्या
अधः प्रतिहत ऊर्ध्वं व्रजन् मारुतो हृदाश्रिताः-हृदयस्थाः, नाडीरन्तः प्रविश्य हृदयं तथा शिरश्च शङ्खौ च पीड्यन्, आक्षिपेत्परितो गात्रं-समन्तात्कायमाक्षिपेत्,-संहरेत्| तथा, धनुर्वच्चास्य-अपतन्त्रकवतः, प्रकृतत्वाद्गात्रं नामयेत्| तथा स पुमान् कृच्छ्रादुच्छ्वसिति-कथञ्चिच्छ्वसिति| दृक्-चक्षुरिन्द्रियाधिष्ठानं दृक्शब्देनेह गृह्यते| स्तब्धा स्रस्ता मीलिता च दृग्यस्यासौ स्तब्धस्रस्तमीलितदृक्| ततः-अनन्तरं, कपोत इव कूजेत्-अव्यक्तं शब्दं विदध्यात्| तथा, निःसंज्ञो-विचेतनः सम्पद्यते| सः-एवंरूपो वातव्याधिः, अपतन्त्रकाख्यो भण्यते| स एव चापतानकसंज्ञो निगद्यते| मुक्ते त्वित्यादि| वायुनाऽनाक्रान्ते हृदये क्षणं स्वास्थ्यं प्राप्नुयात्| मुहुरस्वास्थ्यं-तेनावृते हृद्यस्वास्थ्यमश्नुवीत|
Reference
अष्टाङ्गहृदयम् निदानस्थानम् - १५. वातव्याधिनिदानध्यायः