Arditha lakshana: A.Hridaya

Sloka

शिरसा भारहरणादतिहास्यप्रभाषणात्|
उत्त्रासवक्त्रक्षवथोः खरकार्मुककर्षणात्||३२||
विषमादुपधानाच्च कठिनानां च चर्वणात्|
वायुर्विवृद्धस्तैस्तैश्च वातलैरूर्ध्वमास्थितः||३३||
वक्रीकरोति वक्त्रार्धमुक्तं हसितमीक्षितम्|
ततोऽस्य कम्पते मूर्द्धा वाक्सङ्गः स्तब्धनेत्रता||३४||
दन्तचालः स्वरभ्रंशः श्रुतिहानिः क्षवग्रहः|
गन्धाज्ञानं स्मृतेर्मोहस्त्रासः सुप्तस्य जायते||३५||
निष्ठीवः पार्श्वतो यायादेकस्याक्ष्णो निमीलनम्|
जत्रोरूर्ध्वं रुजा तीव्रा शरीरार्धेऽधरेऽपि वा||३६||
तमाहुरर्दितं केचिदेकायाममथापरे|
----------------------------------------------|३७|

सर्वाङ्गसुन्दरी व्याख्या

शिरोभारहरणादिभिर्वायुर्विवृद्धो-विशेषेण वृद्धिं गतः, तथा तैस्तैश्च वातलैः-सर्वरोगनिदानाद्युक्तैः, ऊर्ध्वमात्स्थितः-शरीरस्योपरिभागे आसमन्तात्स्थितो , वक्त्रार्धं वक्रीकरोति| तथा, उक्तंहसितमीक्षितं च वक्रीकरोति| तथा, उक्तं हसितमीक्षितं च वक्रीकरोति| ततः-अनन्तरं, अस्य-नरस्य,मूर्धा कम्पते| तथा, वाक्सङ्गो जायते| तथा, स्तब्धनेत्रतादयश्च| तथा, निष्ठीवो-निष्ठीवनं, पार्श्वेन गच्छेत्| एकस्य चाक्ष्णो निमीलनं स्यात्| जत्रोरूर्ध्वं तीव्रा रुजा-दारुणा पीडा, भवति| शरीरार्धेऽधरेऽपि वा-अधस्ताद्वा, तं-ईदृशं वातव्याधिं, केचिदर्दितमाहुः, अपरे तन्त्रकृत एकायामं वदन्ति|

Reference

अष्टाङ्गहृदयम् निदानस्थानम् - १५. वातव्याधिनिदानध्यायः