Bahirayama lakshana: A.Hridaya
Sloka
--------------------बाह्यायामश्च तद्विधः||२४||
देहस्य बहिरायामात् पृष्ठतो नीयते शिरः|
उरश्चोत्क्षिप्यते तत्र कन्धरा चावमृद्यते||२५||
दन्तेष्वास्ये च वैवर्ण्यं प्रस्वेदः स्रस्तगात्रता|
बाह्यायामं धनुष्कम्भं ब्रुवते वेगिनं च तम्||२६||
देहस्य बहिरायामात् पृष्ठतो नीयते शिरः|
उरश्चोत्क्षिप्यते तत्र कन्धरा चावमृद्यते||२५||
दन्तेष्वास्ये च वैवर्ण्यं प्रस्वेदः स्रस्तगात्रता|
बाह्यायामं धनुष्कम्भं ब्रुवते वेगिनं च तम्||२६||
सर्वाङ्गसुन्दरी व्याख्या
बाह्यायामश्च तद्विधः-तादृशः| देहस्य बहिरायामात्-अङ्गस्य धनुर्वद्बहिर्वक्रीकरणात्, बहिरायाम उच्यत इति शेषः| तमेव प्रदर्शयितुमाह - पृष्ठत इत्यादि| शिरः (पृष्ठतः-) पृष्ठाभिमुखं नीयते| तथा, तत्र-बाह्यायामे, उरो-वक्षः, उत्क्षिप्यते-उन्नतिं नीयते| तथा, कन्धरा-ग्रीवा च, अवमृद्यते-क्षुद्यते| तथा, दन्तेषु वक्त्रे च वैवर्ण्यं-प्राकृताद्वर्णाद्वर्णान्तरापत्तिः| तथा, प्रकर्षेण स्वेदः| तथा, स्रस्तगात्रता-श्लथाङ्गता| तं-तथाभूतं वातव्याधिं, बाह्यायामं धनुष्कम्भं च ब्रुवते| तमेव केचिद्वेगिनमित्याचक्षते|
Reference
अष्टाङ्गहृदयम् निदानस्थानम् - १५. वातव्याधिनिदानध्यायः