Dantaka lakshana: A.Hridaya

Sloka

आमबद्धायनः कुर्यात्संस्तभ्याङ्गं कफान्वितः|
असाध्यं हतसर्वेहं दण्डवद्दण्डकं मरुत्||४२||

सर्वाङ्गसुन्दरी व्याख्या

आमेन बद्धानि-स्थगितानि, अयनानि-द्वाराणि प्रकृतत्वात् स्रोतसां, येन स आमबद्धायनः, कफान्वितो मारुतोङ्गं संस्तभ्य-स्तम्भयित्वा दण्डवत् दण्डकाख्यं वातव्याधिविशेषं कुर्यात्| तमसाध्यम्| तथा हताः सर्वा ईहाः-चेष्टाः, यस्मिंस्तमेवंभूतम्|

Reference

अष्टाङ्गहृदयम् निदानस्थानम् - १५. वातव्याधिनिदानध्यायः