Gridhrasi lakshana: A.Hridaya
Sloka
पार्ष्णिं प्रत्यङ्गुलीनां या कण्डरा मारुतार्दिता|
सक्थ्युत्क्षेपं निगृह्णाति गृध्रसीं तां प्रचक्षते||५४||
सक्थ्युत्क्षेपं निगृह्णाति गृध्रसीं तां प्रचक्षते||५४||
सर्वाङ्गसुन्दरी व्याख्या
पार्ष्णिं प्रति-पार्ष्ण्यभिमुखं, या अङ्गुलीनां कण्डरा सा मारुतेन-वायुना, अर्दिता-व्यथिता, चरणोद्धरणावसरे यः सक्थ्युत्क्षेपः-ऊर्ध्वं प्रेरणं, तं निगृह्णाति-अवमृद्गाति सक्थ्नोर्निश्चलत्वमिवोत्पादयति| तां-कण्डरां, व्याधिविशेषसंज्ञां गृध्रसीं प्रचक्षते, तन्त्रकृत इति शेषः|
Reference
अष्टाङ्गहृदयम् निदानस्थानम् - १५. वातव्याधिनिदानध्यायः