Jihwasthambha lakshana: A.Hridaya

Sloka

वाग्वाहिनीसिरासंस्थो जिह्वां स्तम्भयतेऽनिलः|
जिह्वास्तम्भः स तेनान्नपानवाक्येष्वनीशता||३१||

सर्वाङ्गसुन्दरी व्याख्या

वाग्वाहिनीसिरासंस्थो वायुर्जिह्वां स्तम्भयते| सः-एवंविधो, जिह्वास्तम्भ उच्यते| तेन-जिह्वास्तम्भेन, अन्नपानवाक्येषु अनीशता-असमर्थता, भवति|

Reference

अष्टाङ्गहृदयम् निदानस्थानम् - १५. वातव्याधिनिदानध्यायः