Kalayakhanja lakshana: A.Hridaya
Sloka
कम्पते गमनारम्भे खञ्जन्निव च याति यः|
कलायखञ्जं तं विद्यान्मुक्तसन्धिप्रबन्धनम्||४६||
कलायखञ्जं तं विद्यान्मुक्तसन्धिप्रबन्धनम्||४६||
सर्वाङ्गसुन्दरी व्याख्या
तथा यो गमनारम्भे कम्पते-वेपते, खञ्जन्निव च याति| तं-एवंभूतं, कलायखञ्जाख्यं व्याधिं विद्यात्| किम्भूतम् ? मुक्तं सन्धिप्रबन्धनं यत्र, तं तथाविधम्|
Reference
अष्टाङ्गहृदयम् निदानस्थानम् - १५. वातव्याधिनिदानध्यायः