Khalli lakshana: A.Hridaya

Sloka

विश्वाची गृध्रसी चोक्ता खल्ली तीव्ररुजान्विते|

सर्वाङ्गसुन्दरी व्याख्या

विश्वाची चोक्ता "बाहुचेष्टापहरणी" (श्लो. ४४) इत्यादिना ग्रन्थेन, गृध्रसी चाधुनैवोक्ता| ते द्वे तीव्ररुजान्विते सत्यौ खल्ली भण्यते|

Reference

अष्टाङ्गहृदयम् निदानस्थानम् - १५. वातव्याधिनिदानध्यायः