Khanja-Pangu lakshana: A.Hridaya
Sloka
वायुः कट्यां स्थितः सक्थ्नः कण्डरामाक्षिपेद्यदा|
तदा खञ्जो भवेज्जन्तुः पङ्गुः सक्थ्नोर्द्वयोरपि||४५||
तदा खञ्जो भवेज्जन्तुः पङ्गुः सक्थ्नोर्द्वयोरपि||४५||
सर्वाङ्गसुन्दरी व्याख्या
कट्यां स्थितो मारुतो यदा सक्थ्नः-ऊरोः सम्बन्धिनीं, कण्डरामाक्षिपेत्-आकर्षेत्, तदा प्राणी खञ्जो भवेत्| द्वयोरपि सक्थ्नोः सम्बन्धिनीं कण्डरां यदाऽऽक्षिपेत्तदा पङ्गुः स्यात्|
Reference
अष्टाङ्गहृदयम् निदानस्थानम् - १५. वातव्याधिनिदानध्यायः