Mamsamedogata vatakopa: A.Hridaya

Sloka

मांसमेदोगतो ग्रन्थींस्तोदाढ्यान् कर्कशान् श्रमम्|
गुर्वङ्गं चातिरुक्स्तब्धं मुष्टिदण्डहतोपमम्||११||

सर्वाङ्गसुन्दरी व्याख्या

मांसमेदोगतस्तत्रस्थः क्रुद्धो ग्रन्थींस्तोदादियुतांस्तथा श्रमादींश्च करोति| सुश्रुते चात्र विशेष उक्तः| तथा च तद्ग्रन्थः- (सु. नि. अ. १|२६) - कर्कशांस्तोदबहुलान् ग्रन्थीन् मांससमाश्रितः| वायुर्मेदोयुतः कुर्याद्ग्रन्थीन् मन्दरुजोऽव्रणान्||" इति|

Reference

अष्टाङ्गहृदयम् निदानस्थानम् - १५. वातव्याधिनिदानध्यायः