Padadaha lakshana: A.Hridaya

Sloka

पादयोः कुरुते दाहं पित्तासृक्सहितोऽनिलः||५६||
विशेषतश्चङ्क्रमिते पाददाहं तमादिशेत्|

सर्वाङ्गसुन्दरी व्याख्या

अनिलः पित्तरक्तसहितः पादयोर्दाहं कुरुते, विशेषेण तु चङ्क्रमिते सति| तं-एवंभूतं, पाददाहमादिशेत्-ब्रूयात्, भिषगिति शेषः|

Reference

अष्टाङ्गहृदयम् निदानस्थानम् - १५. वातव्याधिनिदानध्यायः