Padaharsha lakshana: A.Hridaya

Sloka

हृष्येते चरणौ यस्य भवेतां च प्रसुप्तवत्||५५||
पादहर्षः स विज्ञेयः कफमारुतकोपजः|

सर्वाङ्गसुन्दरी व्याख्या

यस्य पुंसश्चरणौ हृष्येते प्रसुप्ताविव च स्याताम्, सः-एवंभूतो वातव्याधिः, पादहर्षाख्यः| स च वातश्लेष्मकोपजो वेद्यः|

Reference

अष्टाङ्गहृदयम् निदानस्थानम् - १५. वातव्याधिनिदानध्यायः