Pakshavadha lakshana: A.Hridaya
Sloka
गृहीत्वाऽर्धं तनोर्वायुः सिराः स्नायूर्विशोष्य च||३८||
पक्षमन्यतरं हन्ति सन्धिबन्धान् विमोक्षयन्|
कृत्स्नोऽर्धकायस्तस्य स्यादकर्मण्यो विचेतनः||३९||
एकाङ्गरोगं तं केचिदन्ये पक्षवधं विदुः|
पक्षमन्यतरं हन्ति सन्धिबन्धान् विमोक्षयन्|
कृत्स्नोऽर्धकायस्तस्य स्यादकर्मण्यो विचेतनः||३९||
एकाङ्गरोगं तं केचिदन्ये पक्षवधं विदुः|
सर्वाङ्गसुन्दरी व्याख्या
वायुस्तनोः-शरीरस्य, अर्धं गृहीत्वा सिराः स्नायूश्च विशोष्य ततोऽन्यतरं-वामं दक्षिणं वा, पक्षं हन्ति| किं कुर्वन् ? सन्धीनां बन्धान् विमोक्षयन्-विघट्टयन्| तस्यैव च-व्याधिमतः, कृत्स्नः-सर्वोऽर्धकायः, अकर्मण्यः-क्रियायामशक्तो, विचेतनश्च स्यात्| तं-ईदृशं वातव्याधिं, केचिदेकाङ्गरोगं वदन्ति, अन्ये पक्षवधमित्याहुः| अर्धकाय इति "अर्धं नपुंसकम्" इति समासः|
Reference
अष्टाङ्गहृदयम् निदानस्थानम् - १५. वातव्याधिनिदानध्यायः