Pakwasayagata vatakopa: A.Hridaya
Sloka
तत्र पक्वाशये क्रुद्धः शूलानाहान्त्रकूजनम्|
मलरोधाश्मवर्ध्मार्शस्त्रिकपृष्ठकटीग्रहम्||७||
करोत्यधरकाये च तांस्तान् कृच्छ्रानुपद्रवान्|
मलरोधाश्मवर्ध्मार्शस्त्रिकपृष्ठकटीग्रहम्||७||
करोत्यधरकाये च तांस्तान् कृच्छ्रानुपद्रवान्|
सर्वाङ्गसुन्दरी व्याख्या
एवमुभयथा वायुः पक्वाशये क्रुद्धः शूलानाहावन्त्रकूजनादींश्च करोति| तथा, अधरकाये च-शरीरस्याधस्तात्, तांस्तान्-नानाविधान्, उपद्रवान्-व्याधीन्, कृच्छ्रान्-कृच्छ्रसाध्यान्, करोति| कायस्याधर इति पूर्वापरेत्यादिना समासः|
Reference
अष्टाङ्गहृदयम् निदानस्थानम् - १५. वातव्याधिनिदानध्यायः