Sandhigata vatakopa: A.Hridaya

Sloka

वातपूर्णदृतिस्पर्शं शोफं सन्धिगतोऽनिलः||१४||
प्रसारणाकुञ्चनयोः प्रवृत्तिं च सवेदनाम्|

सर्वाङ्गसुन्दरी व्याख्या

सन्धिगतोऽनिलः क्रुद्धः शोफं कुर्यात्| किम्भूतम् ? वातपूर्णदृतिस्पर्शं-तत्तुल्यम्| तथा, प्रसारण आकुञ्चने च सवेदनां प्रवृत्तिं करोति|

Reference

अष्टाङ्गहृदयम् निदानस्थानम् - १५. वातव्याधिनिदानध्यायः