Urusthambha lakshana: A.Hridaya

Sloka

शीतोष्णद्रवसंशुष्कगुरुस्निग्धैर्निषेवितैः|
जीर्णाजीर्णे तथाऽऽयाससङ्क्षोभस्वप्नजागरैः||४७||
सश्लेष्ममेदःपवनमाममत्यर्थसञ्चितम्|
अभिभूयेतरं दोषमूरु चेत्प्रतिपद्यते||४८||
सक्थ्यस्थीनि प्रपूर्यान्तः श्लेष्मणा स्तिमितेन तत्|
तदा स्कभ्नाति तेनोरू स्तब्धौ शीतावचेतनौ||४९||
परकीयाविव गुरू स्यातामतिभृशव्यथौ|
ध्यानाङ्गमर्दस्तैमित्यतन्द्राच्छर्द्यरुचिज्वरैः||५०||
संयुतौ पादसदनकृच्छ्रोद्धरणसुप्तिभिः|
तमूरुस्तम्भमित्याहुराढ्यवातमथापरे||५१||

सर्वाङ्गसुन्दरी व्याख्या

जीर्णेन सहितमजीर्णं जीर्णाजीर्णं-पक्वापक्वमाहारकदम्बकं, केनचिन्निमित्तेन जाठराग्निसंयोगादाहारराशेः कश्चिद्भागः पक्वः कश्चिदपक्व इति जीर्णाजीर्णम्, तस्मिन्सति| शीतोष्णादिभिस्तथाऽऽयाससङ्क्षोभादिभिर्निषेवितैः-चिरमभ्यस्तैः, आममत्यर्थं सञ्चितं-बहु सम्भृतं, ऊरु यदा प्रतिपद्यते-उभावाश्रित्यास्ते, तदा-तस्मिन्काये, तेन-यथोक्तेन हेतुना, तावूरु स्कभ्नाति-स्तम्भयति| किम्भूतमामम् ? सश्लेष्ममेदःपवनम्| सह श्लेष्मणा मेदसा पवनेन च वर्तत इति सश्लेष्ममेदःपवनम्, न तु केवलमेव| तथा, इतरं दोषं-वातश्लेष्मापेक्षया पित्ताख्यं, अभिभूय-आक्रम्य, न वातं कफं वा| तेन हि तयोरभिभवो न युक्तः, तत्सहवर्तमानत्वात्| तथा, तेन सहवर्तमानेनापि श्लेष्मणा च स्तिमितेन-स्त्यानेन, सक्थिसम्बन्धीन्यस्थीन्यन्तः प्रपूर्य-तानि निर्भराणि कृत्वा, तदा तत्-आमं, ऊरु स्कभ्नातीति योज्यम्| तेन हेतुना तदा-तस्मिन्काले, तावूरु स्तब्धौ-निश्चलौ, तथा स्पर्शतः शीतौ, तथाऽचेतनौ-सूच्यादिभिस्तुद्यमानावपि पीडां न वेदयेताम्, अत एव परकीयाविव गुरु स्याताम्| तथाऽतिभृशव्यथौ-अत्यन्तशूलान्वितौ| परकीयाविति "कुग्जनस्य परस्य च" इति ईयः कुगागमश्च| तथा ध्यानादिभिः संयुतौ| ध्यानं-चिन्ता दौर्मनस्यमित्यर्थः| तथा पादसदनादिभिः संयुतौ| एवंलक्षणो यो व्याधिविशेषस्तमूरुस्तम्भमाहुः, तन्त्रकृत इति शेषः| अपरे आचार्या आढ्यवातमिति तमाहुः| आमशब्दस्य नपुंसकत्वं लोकाश्रयत्वाल्लिङ्गस्येति बोध्यम्|

Reference

अष्टाङ्गहृदयम् निदानस्थानम् - १५. वातव्याधिनिदानध्यायः