Viswachi lakshana: A.Hridaya
Sloka
तलं प्रत्यङ्गुलीनां या कण्डरा बाहुपृष्ठतः|
बाहुचेष्टापहरणी विश्वाची नाम सा स्मृता||४४||
बाहुचेष्टापहरणी विश्वाची नाम सा स्मृता||४४||
सर्वाङ्गसुन्दरी व्याख्या
तलं-हस्ततलं, प्रति-लक्षणी (लक्ष्यी) कृत्य, या कण्डरा-सुमहान् स्नायुसङ्घातः, सा बाहुपृष्ठतो गता, तथा मारुतार्दिता-वातेन पीडीता सती, बाहुचेष्टां-भुजव्यापारं, अपहरति [ इति ] बाहुचेष्टापहरणी| बाहुलकादत्र कर्तरी ल्युट् स्त्रीत्वं च| एवंभूता विश्वाची संज्ञा स्मृता, मुनिभिरिति शेषः|
Reference
अष्टाङ्गहृदयम् निदानस्थानम् - १५. वातव्याधिनिदानध्यायः