Sopha types (2): A.Hridaya

Sloka

द्विधा वा निजमागन्तुं सर्वाङ्गैकाङ्गजं च तम्||२३||
पृथून्नतग्रथितताविशेषैश्च त्रिधा विदुः|

सर्वाङ्गसुन्दरी व्याख्या

अथवा निजागन्तुभेदेन द्विधा श्वयथुमाहुः| तथा, तं-शोफं, सर्वाङ्गजं-सर्वशरीरजं, एकाङ्गजं-एकावयवजं च, इति पुनर्द्विप्रकारमाहुः| पृथुश्चोन्नतश्च ग्रथितश्च तेषां भावः पृथून्नतग्रथितता, तया विशेषास्तैस्त्रिधा-त्रिप्रकारं, शोफं विदुः| विदुरिति "विद ज्ञाने" इत्यस्मादुसादेशः| पृथुत्वेन-विस्तीर्णकृतत्वेन विशेषेण, तथोन्नतत्वेन विशेषेण, तथा ग्रथितस्वरूपत्वेन विशेषेणेति योज्यम्|

Reference

अष्टाङ्गहृदयम् निदानस्थानम् - १३. पाण्डुरोगशोफविसर्पनिदानध्यायः