Sopha types (9): A.Hridaya
Sloka
------------हेतुविशेषैस्तु रूपभेदान्नवात्मकम्||२२||
दोषैः पृथग्द्वयैः सर्वैरभिघाताद्विषादपि|
दोषैः पृथग्द्वयैः सर्वैरभिघाताद्विषादपि|
सर्वाङ्गसुन्दरी व्याख्या
तुशब्दो विशेषार्थः| यद्यपि सर्वस्त्रिदोषजः शोफस्तथाऽपि हेतुविशेषैर्यो रूपभेदस्तस्मान्नवात्मकं शोफमाहुः| तथा हि-योऽयं सन्निपातः शोफहेतुरेष कदाचित्समं कृत्वा कुप्यति कदाचिद्विषमं कृत्वैकदोषवृद्धिस्वरूपतया| एवं च हेतुविशेषैर्यो लक्षणभेदस्तस्मान्नवप्रकारत्वं शोफस्य न्याय्यमेव| लक्षणभेदश्चैषां स्पष्ट एव| तथा चाभिघाताद्धेतोश्च यथावदन्यल्लक्षणं विषाद्धेतोरन्यल्लक्षणं तद्वत् पृथग्वातादेश्च यथावदन्यत् द्वन्द्वजे चान्यत् सन्निपातजे चान्यदिति| एवं लक्षणविशेषान्नवात्मकमाहुः| उपलक्षणं चेदम्, चिकित्साविशेषादपि हि नवात्मक एव शोफः|
Reference
अष्टाङ्गहृदयम् निदानस्थानम् - १३. पाण्डुरोगशोफविसर्पनिदानध्यायः