Abhighataja sopha lakshana: A.Hridaya

Sloka

अभिघातेन शस्त्रादिच्छेदभेदक्षतादिभिः|
हिमानिलोदध्यनिलैर्भल्लातकपिकच्छुजैः||३८||
रसैः शूकैश्च संस्पर्शाच्छ्वयथुः स्याद्विसर्पवान्|
भृशोष्मा लोहिताभासः प्रायशः पित्तलक्षणः||३९||

सर्वाङ्गसुन्दरी व्याख्या

तथा, शस्त्रादिच्छेदभेदक्षतादिभिर्यः शोफः सोऽभिघातेन, वेद्य इति शेषः| तथा, हिमेनानिलेन तथोदध्यनिलेन-सागरजेन वायुना, तथा रसैः शूकैश्च भल्लातकपिकच्छुजैः संस्पर्शाच्छ्वयथुर्विसर्पवान् भवेत्| स च भृशोष्मा लोहिताभासश्च बाहुल्येन च पित्तलक्षणः स्यात्| पित्तशोफस्य लक्षणं पित्तशोफलक्षणम्, पित्तशोफलक्षणमिव लक्षणं यस्य स पित्तलक्षणः| सप्तम्युपमानपूर्वस्येति बहुव्रीहिरुत्तरपदलोपश्च|

Reference

अष्टाङ्गहृदयम् निदानस्थानम् - १३. पाण्डुरोगशोफविसर्पनिदानध्यायः