Agnivisarpa lakshana : A.Hridaya
Sloka
वातपित्ताज्ज्वरच्छर्दिमूर्च्छातीसारतृड्भ्रमैः||५०||
अस्थिभेदाग्निसदनतमकारोचकैर्युतः|
करोति सर्वमङ्गं च दीप्ताङ्गारावकीर्णवत्||५१||
यं यं देशं विसर्पश्च विसर्पति भवेत्स सः|
शान्ताङ्गारासितो नीलो रक्तो वाऽऽशु च चीयते||५२||
अग्निदग्ध इव स्फोटैः शीघ्रगत्वाद् द्रुतं च सः|
मर्मानुसारी वीसर्पः स्याद्वातोऽतिबलस्ततः||५३||
व्यथेताङ्गं हरेत्संज्ञां निद्रां च श्वासमीरयेत्|
हिध्मां च स गतोऽवस्थामीदृशीं लभते न ना||५४||
क्वचिच्छर्मारतिग्रस्तो भूमिशय्यासनादिषु|
चेष्टमानस्ततः क्लिष्टो मनोदेहश्रमोद्भवाम्||५५||
दुष्प्रबोधोऽश्नुते निद्रां सोऽग्निवीसर्प उच्यते|

सर्वाङ्गसुन्दरी व्याख्या
वातपित्ताद्विसर्पो ज्वरादिभिर्युतः सकलमङ्गं च दीप्ताङ्गारावकीर्णवत्-ज्वलिताङ्गारव्याप्तसदृशं करोति| यं यं च शरीरदेशं विसर्पो विसर्पति-प्रसरति, स स प्रदेशः शान्तागारवदसितो नीलो रक्तो वा भवेत्| तथा, सः-विसर्पो, द्रागेवाग्निदग्ध इव स्फोटैश्चीयते-व्याप्यते| स च विसर्पः शीघ्रगत्वात्-तत्स्वभाववशात्, मर्मानुसारी द्रुतं-त्वरितं कृत्वा, स्यात्| तत एव च वातोऽतिबलो-बलीयान्, अङ्गं-शरीरं, व्यथेत-पीडयेत्| संज्ञां-संविदं, हरेत्-नाशयेत्, निद्रां च हरेत्| श्वासमीरयेत्-कुर्यात्, तथा हिध्मां च| सः-विसर्पी, ना-पुरुषः, ईदृशीमवस्थां गतः-प्राप्तः, चेतोनवस्थालक्षणया-अरत्या, ग्रस्तः-अभिभूतो, न क्वचिद्भूमिशय्यासनादिषु शर्म-सुखं, लभते| अरतिग्रस्त इति हेतौ प्रथमा, अरतिग्रस्तत्वादित्यर्थः| एवं क्वचिदपि सुखालाभाद्भूम्यादिषु चेष्टमानः-परिलुठन्, ततः क्लिष्टो-मनसा कायेन च, मनोदेहश्रमोद्भवां-तदुत्थां, निद्रामश्नुते| किम्भूतः ? दुष्प्रबोधः,-दुःखेन प्रबोधो-निद्रापगमो, यस्य स एवम्| एष चाग्न्याख्यो विसर्प उच्यते|
Reference
अष्टाङ्गहृदयम् निदानस्थानम् - १३. पाण्डुरोगशोफविसर्पनिदानध्यायः