Antharasraya / Bahirasraya visarpa lakshana: A.Hridaya
Sloka
----------------विद्यात्तत्रान्तराश्रयम्||४५||
मर्मोपतापात्सम्मोहादयनानां विघट्टनात्|
तृष्णातियोगाद्वेगानां विषमं च प्रवर्तनात्||४६||
आशु चाग्निबलभ्रंशादतो बाह्यं विपर्ययात्|
मर्मोपतापात्सम्मोहादयनानां विघट्टनात्|
तृष्णातियोगाद्वेगानां विषमं च प्रवर्तनात्||४६||
आशु चाग्निबलभ्रंशादतो बाह्यं विपर्ययात्|
सर्वाङ्गसुन्दरी व्याख्या
तत्र-तेषु त्रिषु विसर्पेषु मध्ये, अन्तराश्रयं विसर्पं मर्मोपतापादिभिर्विद्यात्| मर्मणां-हृदयादीनां, उपतापो-दुःखं, तस्मात्| तथा, सम्मोहात्-मूर्च्छोद्भवात्| अयनानां-कर्णनासादीनां, विघट्टनात्-विशेषेण चलनादतिशयेन परिस्फुरणादित्यर्थः| तथा, तृष्णाया अतियोगात्| तथा वेगानां-नानारूपाणां वेदनानां, विषमं कृत्वा-विच्छिद्य विच्छिद्य कृत्वा, प्रवर्तनात्| आशुच-शीघ्रमेव, अग्निबलयोर्भ्रंशात्-विनाशात्| अतो [ विपर्ययात्-पूर्वोक्तान्तर्विसर्प ] लक्षणविपर्ययात्, बाह्यं-बाह्याश्रयं, विसर्पं विद्यात्|
Reference
अष्टाङ्गहृदयम् निदानस्थानम् - १३. पाण्डुरोगशोफविसर्पनिदानध्यायः