Grandhivisarpa lakshana : A.Hridaya

Sloka

कफेन रुद्धः पवनो भित्त्वा तं बहुधा कफम्||५६||
रक्तं वा वृद्धरक्तस्य त्वक्सिरास्नावमांसगम्|
दूषयित्वा च दीर्घाणुवृत्तस्थूलखरात्मनाम्||५७||
ग्रन्थीनां कुरुते मालां रक्तानां तीव्ररुग्ज्वराम्|
श्वासकासातिसारास्यशोषहिध्मावमिभ्रमैः||५८||
मोहवैवर्ण्यमूर्छाङ्गभङ्गाग्निसदनैर्युताम्|
इत्ययं ग्रन्थिवीसर्पः कफमारुतकोपजः||५९||

सर्वाङ्गसुन्दरी व्याख्या

कफेन पवनो रुद्धस्तमेव-कफं, बहुधा भित्वा ग्रन्थीनां मालां कुरुते| रक्तं च वृद्धरक्तस्य नरस्य दूषयित्वा ग्रन्थीनां मालां कुरुते| किम्भूतं रक्तम् ? त्वक्सिरास्नावमांसगम्| किम्भूतानां ग्रन्थीनाम् ? दीर्घाणुवृत्तस्थूलखरस्वभावानां तथा रक्तवर्णानाम्| किम्भूताम्, मालाम् ? तीव्ररुग्ज्वराम्| तीव्रौ रुग्ज्वरौ यस्यास्ताम् तथा श्वासादिभिर्युताम्| इत्ययं-अनन्तरोक्तो, ग्रन्थिवीसर्प उच्यते| कफवातकोपजश्चायं वेद्यः|

Reference

अष्टाङ्गहृदयम् निदानस्थानम् - १३. पाण्डुरोगशोफविसर्पनिदानध्यायः