Haleemaka lakshana : A.Hridaya
Sloka
हरितश्यावपीतत्वं पाण्डुरोगे यदा भवेत्||१८||
वातपित्ताद्भ्रमस्तृष्णा स्त्रीष्वहर्षो मृदुर्ज्वरः|
तन्द्राबलानलभ्रंशो लोढरं तं हलीमकम्||१९||
अलसं चेति शंसन्ति----------------------|
वातपित्ताद्भ्रमस्तृष्णा स्त्रीष्वहर्षो मृदुर्ज्वरः|
तन्द्राबलानलभ्रंशो लोढरं तं हलीमकम्||१९||
अलसं चेति शंसन्ति----------------------|
सर्वाङ्गसुन्दरी व्याख्या
पाण्डुरोगे सति यदा हरितश्यावपीतता भ्रमादयश्च वातपित्तात्स्युः, अतश्च तं हलीमकं शंसन्ति, मुनय इति शेषः| तं च हलीमकं, लोढरं तथाऽलसं चाचक्षते|
Reference
अष्टाङ्गहृदयम् निदानस्थानम् - १३. पाण्डुरोगशोफविसर्पनिदानध्यायः