Kamala nidana-lakshana : A.Hridaya
Sloka
यः पाण्डुरोगी सेवेत पित्तलं तस्य कामलाम्||१५||
कोष्ठशाखाश्रयां पित्तं दग्ध्वाऽसृङ्मांसमावहेत्|
हारिद्रनेत्रमूत्रत्वङ्नखवक्त्रशकृत्तया||१६||
दाहाविपाकतृष्णावान् भेकाभो दुर्बलेन्द्रियः||१७||
भवेत्पित्तोल्बणस्यासौ पाण्डुरोगादृतेऽपि च||१७||
कोष्ठशाखाश्रयां पित्तं दग्ध्वाऽसृङ्मांसमावहेत्|
हारिद्रनेत्रमूत्रत्वङ्नखवक्त्रशकृत्तया||१६||
दाहाविपाकतृष्णावान् भेकाभो दुर्बलेन्द्रियः||१७||
भवेत्पित्तोल्बणस्यासौ पाण्डुरोगादृतेऽपि च||१७||
सर्वाङ्गसुन्दरी व्याख्या
यो नरः पाण्डुरोगी सन् पित्तलं-मरिचकाञ्चिकादिद्रव्यमत्यर्थं, सेवेत-उपयुङ्क्ते, तस्य-पाण्डुरोगिणः, पित्तं कर्तृ कामलामावहेत्| कीदृशीम्| कोष्ठशाखाश्रयाम्| कोष्ठो-महास्रोतः, शाखा-रक्तादयस्त्वक् च, इति तदुभयमाश्रयो यस्यास्ताम्, किं कृत्वा ? रक्तं मांसं च दग्ध्वा| कथम् ? हारिद्रनेत्रमूत्रत्वङ्नखवक्त्रशकृत्तया| तदा च पुरुषो दाहादिमान् मण्डूकच्छायो दुर्बलेन्द्रियश्च स्यात्| दुर्बलानि-स्वविषयेऽप्यशक्तानि, इन्द्रियाणि यस्य स एवम्| पाण्डुरोगमन्तरेणापि पित्ताधिकस्य नरस्य पित्तलान्यासेवमानस्यासौ कोष्ठशाखाश्रया कामला स्यात्, न केवलं पाण्डुरोगिणः|
Reference
अष्टाङ्गहृदयम् निदानस्थानम् - १३. पाण्डुरोगशोफविसर्पनिदानध्यायः