Kaphaja sopha lakshana: A.Hridaya
Sloka
कण्डूमान् पाण्डुरोमत्वक्कठिनः शीतलो गुरुः|
स्निग्धः श्लक्ष्णः स्थिरः स्त्यानो निद्राच्छर्द्यग्निसादकृत्||३५||
आक्रान्तो नोन्नमेत्कृच्छ्रशमजन्मा निशाबलः|
स्रवेन्नासृक् चिरात्पिच्छां कुशशस्त्रादिविक्षतः||३६||
स्पर्शोष्णकाङ्क्षी च कफात्------------------|

सर्वाङ्गसुन्दरी व्याख्या
कफाच्छोफः कण्डूयुतादिलक्षणः स्यात्| तथा, आक्रान्तः-पीडितः सन्, वातिक इव नोन्नमेत्| तथा, कृच्छ्रे शमजन्मनी यस्य स एवम्| तथा, निशाबलो-रात्रावधिक इत्यर्थः| तथा, कुशशस्त्रादिभिर्विक्षतः स शोफो न रक्तं स्रवेत्| किन्तर्हि ? चिरेण पिच्छां-लसीकापरपर्यायां, स्रवेत्| तथा, स्पर्शाभिलाषी उष्णाभिलाषी च स्यात्|
Reference
अष्टाङ्गहृदयम् निदानस्थानम् - १३. पाण्डुरोगशोफविसर्पनिदानध्यायः