Kardamavisarpa lakshana : A.Hridaya

Sloka

कफपित्ताज्ज्वरः स्तम्भो निद्रातन्द्राशिरोरुजः|
अङ्गावसादविक्षेपप्रलापारोचकभ्रमाः||६०||
मूर्च्छाग्निहानिर्भेदोऽस्थ्नां पिपासेन्द्रियगौरवम्|
आमोपवेशनं लेपः स्रोतसां स च सर्पति||६१||
प्रायेणामाशये गृह्णन्नेकदेशं न चातिरुक्|
पिटकैरवकीर्णोऽतिपीतलोहितपाण्डुरैः||६२||
मेचकाभोऽसितः स्निग्धो मलिनः शोफवान् गुरुः|
गम्भीरपाकः प्राज्योष्मा स्पृष्टः क्लिन्नोऽवदीर्यते||६३||
पङ्कवच्छीर्णमांसश्च स्पष्टस्नायुसिरागणः|
शवगन्धिश्च वीसर्पं कर्दमाख्यमुशन्ति तम्||६४||

सर्वाङ्गसुन्दरी व्याख्या

कफपित्तात् कर्दमाख्यो जायते| तत्र ज्वरादयः स्युः| स च-विसर्पः, प्रायेण-बाहुल्येन, आमाशये-नाभिस्तनान्तरमध्ये, एकदेशं गृह्णन्-आक्रामन्, अनन्तरं देहं सर्पति-व्याप्नोति| न चातिरुक् स्यात्| तथा, पिटकैरवकीर्णो-व्याप्तः, स्यात्| किम्भूतैः ? अतिपीतलोहितपाण्डुरैः| तथा, मेचकाभादिकः स्यात्| मेचको-मयूरकण्ठसदृशो वर्णः| तं-तादृशं, विसर्पं कर्दमाख्यं-कर्दमसंज्ञं, उशन्ति, मुनय इति शेषः|

Reference

अष्टाङ्गहृदयम् निदानस्थानम् - १३. पाण्डुरोगशोफविसर्पनिदानध्यायः