Kshatajavisarpa lakshana : A.Hridaya
Sloka
बाह्यहेतोः क्षतात्क्रुद्धः सरक्तं पित्तमीरयन्||६५||
विसर्पं मारुतः कुर्यात् कुलत्थसदृशैश्चितम्|
स्फोटैः शोफज्वररुजादाहाढ्यं श्यावलोहितम्||६६||
विसर्पं मारुतः कुर्यात् कुलत्थसदृशैश्चितम्|
स्फोटैः शोफज्वररुजादाहाढ्यं श्यावलोहितम्||६६||
सर्वाङ्गसुन्दरी व्याख्या
मारुतो-वातः, क्षताद्बाह्यकारणात् क्रुद्धः सन् विसर्पं कुर्यात्| किं कुर्वन् ? पित्तं सह रक्तेन प्रेरयन्| तथा, स्फोटैः-पिटकैः, चित्तं-व्याप्तम्| किम्भूतैः ? कुलत्थसदृशैः| तथा, शोफादिभिराढ्यं-अतिशयेन युतम्| तथा, श्यावलोहितं-वर्णेन|
Reference
अष्टाङ्गहृदयम् निदानस्थानम् - १३. पाण्डुरोगशोफविसर्पनिदानध्यायः