Kumbhakamala lakshana : A.Hridaya
Sloka
उपेक्षया च शोफाढ्या सा कृच्छ्रा कुम्भकामला|
सर्वाङ्गसुन्दरी व्याख्या
उपेक्षया-चिकित्सां विना, सैव-कामला, यदा शोफाढ्या-श्वयथुबहुला, स्यात्तदा कुम्भकामलेत्युच्यते| कृच्छ्रा-कृच्छ्रसाध्या|
Reference
अष्टाङ्गहृदयम् निदानस्थानम् - १३. पाण्डुरोगशोफविसर्पनिदानध्यायः