Mritbhakshanajanya panduroga lakshana : A.Hridaya
Sloka
मृत्कषायाऽनिलं पित्तमूषरा मधुरा कफम्|
दूषयित्वा रसादींश्च रौक्ष्याद्भुक्तं विरूक्ष्य च||१३||
स्रोतांस्यपक्वैवापूर्य कुर्याद्रुद्ध्वा च पूर्ववत्|
पाण्डुरोगं ततः शूननाभिपादास्यमेहनः||१४||
पुरीषं कृमिमन्मुञ्चेद्भिन्नं सासृक्कफं नरः|
दूषयित्वा रसादींश्च रौक्ष्याद्भुक्तं विरूक्ष्य च||१३||
स्रोतांस्यपक्वैवापूर्य कुर्याद्रुद्ध्वा च पूर्ववत्|
पाण्डुरोगं ततः शूननाभिपादास्यमेहनः||१४||
पुरीषं कृमिमन्मुञ्चेद्भिन्नं सासृक्कफं नरः|
सर्वाङ्गसुन्दरी व्याख्या
मृद्भक्षिता कषायरसा वातं दूषयित्वा पाण्डुरोगं कुर्यात्| ऊषरा-सक्षारमृत्तिका, पित्तं दूषयित्वा पाण्डुरोगं कुर्यात्| मधुरा मृत्तिका कफं दूषयित्वा पाण्डुरोगं कुर्यात्| तथा, रसादींश्च धातून् दूषयित्वा रौक्ष्याच्च हेतोर्भुक्तं विरूक्ष्य चेति| यतः स्वभावत एव मृत्तिका रूक्षा| तस्माद्भुक्तं विरूक्षयति| स्रोतांसि चापूर्य रुद्ध्वाऽपक्वैव सती पाण्डुरोगं पूर्ववत् पित्तप्रधानाः कुपिता इत्यादिना न्यायेन कुर्यात्| मृत्तिकाया गुरुत्वात् पाकाभावः| अथवा अशब्दोऽत्रेषदर्थे| अलोमिका एडकेति यथा| तेन किञ्चित्पक्वेति गम्यते| ततः-तेन पाण्डुरोगेण, शूननाभ्यादिकः सन् कृम्यादियुतं पुरीषं मुञ्चेत्|
Reference
अष्टाङ्गहृदयम् निदानस्थानम् - १३. पाण्डुरोगशोफविसर्पनिदानध्यायः