Panduroga types: A.Hridaya

Sloka

स पञ्चधा पृथग्दोषैः समस्तैर्मृत्तिकादनात्||७||

सर्वाङ्गसुन्दरी व्याख्या

पाण्डुरोगः, पञ्चधा स्यात्| कथम् ? इत्याह-पृथग्दोषैः सन्निपातेन मृद्भक्षणाच्च| ननु, मृत्तिकादनात् पृथग्पाण्डुरोगो न वाच्यः, पृथग्वातादिदोषजे पाण्डुरोगेऽन्तर्भूतत्वात्| मृदा हि वातादिप्रकोपो विधीयते तिक्तोषणादिभिरिव| वातादिप्रकोपश्च पाण्डुरोगकृत्| तस्मात्पृथङ्मृदो न युक्तो निर्देशः| अत्र ब्रूमः| मृदोऽन्ये ये वातादिप्रकोपहेतवः पाण्डुरोगसम्पादने सम्भावनायोग्याः, ते पाण्डुरोगं सम्पाद्य हेतुस्वरूपसत्तया विनिवर्तन्ते| मृत्तिका तु तीक्ष्णैः संशोधनैर्विना पाण्डुरोगं यावत्कायेऽवतिष्ठते| इत्ययं वातादिकोपहेतुभ्योऽन्येभ्यो मृदः पाण्डुरोगं प्रति विशेषः| तस्मान्मृदा पृथक् पाण्डुरोगो वक्तुं न्याय्यः|

Reference

अष्टाङ्गहृदयम् निदानस्थानम् - १३. पाण्डुरोगशोफविसर्पनिदानध्यायः