Panduroga lakshana: A.Hridaya
Sloka
----------------------------------तेन गौरवम्|
धातूनां स्याच्च शैथिल्यमोजसश्च गुणक्षयः||४||
ततोऽल्परक्तमेदस्को निःसारः स्याच्छ्लथेन्द्रियः|
मृद्यमानैरिवाङ्गैर्ना द्रवता हृदयेन च||५||
शूनाक्षिकूटः सदनः कोपनः ष्ठीवनोऽल्पवाक्|
अन्नद्विट् शिशिरद्वेषी शीर्णरोमा हतानलः||६||
सन्नसक्थो ज्वरी श्वासी कर्णक्ष्वेडी भ्रमी श्रमी|

सर्वाङ्गसुन्दरी व्याख्या
-तेन-पाण्डुरोगेण, धातूनां-रसरुधिरादीनां, गौरवं शैथिल्यं च स्यात्| तथा, ओजसो गुणक्षयो-माधुर्य(मन्द)शैत्यादीनामोजोगुणानां (हृ. नि. अ. ६|१) विनाशः| तत एव-ओजोगुणक्षयात्, पाण्ड्वामयी नरोऽल्परक्तमेदस्कः| अल्पे रक्तमेदसी यस्य स एवम्| तथा, निःसारो-दुर्बलः स्यात्|तथा श्लथेन्द्रियः| [ श्लथानि- ] शिथिलानि, इन्द्रियाणि-वाक्पाणिपादपायूपस्थरूपाणि, यस्य स श्लथेन्द्रियः| तथा, इन्द्रियशब्देन बुद्धीन्द्रियाणां चक्षुरादीनामधिष्ठानान्युपलक्ष्यन्ते| ननु, पित्तप्रधानाः कुपिता इति पित्तवृद्धिरुक्ता| पित्तवृद्ध्या च रक्तवृद्ध्या भवितव्यम्| तत्कथमुक्तमल्परक्ततेति ? अत्रोच्यते| दोषाणामन्योन्यदूषणात् दूषस्य च दोषैर्दूषितत्वात् प्रसादपरम्परयाऽपुष्टौ सत्यां किट्टबाहुल्यात् पित्त[स्य]अधिक्यम्, न रक्तस्य प्रसादात्मकस्य, इति पित्ताधिक्यमल्परक्तता चेत्युपपन्नम्| तथा, अङ्गैः-अवयवैः, मृद्यमानैरिवासौ नर उपलक्षितः, तथा हृदयेन द्रवता च| तथा, शूनावक्षिकूटौ यस्य स एवम्| तथा, सदनः-अङ्गसादवान्| तथा, कोपनादिकः स्यात्|
Reference
अष्टाङ्गहृदयम् निदानस्थानम् - १३. पाण्डुरोगशोफविसर्पनिदानध्यायः