Panduroga samprapthi: A.Hridaya
Sloka
पित्तप्रधानाः कुपिता यथोक्तैः कोपनैर्मलाः|
तत्रानिलेन बलिना क्षिप्तं पित्तं हृदि स्थितम्||१||
धमनीर्दश सम्प्राप्य व्याप्नुवत्सकलां तनुम्|
श्लेष्मत्वग्रक्तमांसानि प्रदूष्यान्तरमाश्रितम्||२||
त्वङ्मांसयोस्तत्कुरुते त्वचि वर्णान् पृथग्विधान्|
पाण्डुहारिद्रहरितान् पाण्डुत्वं तेषु चाधिकम्||३||
यतोऽतः पाण्डुरित्युक्तः स रोगः-------------|
तत्रानिलेन बलिना क्षिप्तं पित्तं हृदि स्थितम्||१||
धमनीर्दश सम्प्राप्य व्याप्नुवत्सकलां तनुम्|
श्लेष्मत्वग्रक्तमांसानि प्रदूष्यान्तरमाश्रितम्||२||
त्वङ्मांसयोस्तत्कुरुते त्वचि वर्णान् पृथग्विधान्|
पाण्डुहारिद्रहरितान् पाण्डुत्वं तेषु चाधिकम्||३||
यतोऽतः पाण्डुरित्युक्तः स रोगः-------------|
सर्वाङ्गसुन्दरी व्याख्या
यत्र मलाः-वातादयः, पित्तप्रधाना यथोक्तैः-सर्वरोगनिदानाद्युक्तैः, कोपनैः कुपिताः-क्रुद्धाः, पाण्डुरोगहेतवः| कथम् ? इत्याह-तत्रेत्यादि| [ तत्र- ] तेषु तथाभूतेषु सत्सु, वातेन बलिना-बलवता, क्षिप्तं पित्तं हृदि स्थितमनन्तरं तत्पित्तं धमनीर्दश-हृदि स्थिताः, सम्प्राप्य-आश्रित्य, सकलां तनुं व्याप्नुवत्-अश्नुवानम्| सकलशब्दोपादानं मूत्रपुरीषादीनामपि ग्रहणार्थम्| अत एवाख्यास्यति (श्लो. ९) - "कृष्णरूक्षारुणसिरानखविण्मूत्रनेत्रता|" इति| तथा श्लेष्मत्वग्रक्तमांसानि प्रदूष्य| किम्भूतं पित्तम् ? त्वङ्मासयोरन्तरं-मध्यमाश्रितम्| तत्-पित्तं, त्वचि वर्णान् पृथग्विधान्-नानाप्रकारान्, पाण्डुहारिद्रहरितान् कुरुते| तेषु-वर्णेषु मध्ये, यतो-यस्मात्, अतिशयेन पाण्डुत्वमधिकमतः-अस्मात्, स रोगः पाण्डुरित्युक्तः-संज्ञितः| ननु, 'पित्तप्रधानाः' इति कथमुक्तम् ? यावता (यतो) वायोर्बलीयस्त्वात् 'वातप्रधानाः' इति वक्तुं युक्तं स्यात्| बलीयस्त्वं चानन्तरमेव प्रतिपादितं 'तत्रानिलेन बलिना क्षिप्तं' इति| असदेतत्| यतो नात्र बलीयस्त्वाबलीयस्त्वकृते प्राधान्याप्राधान्ये विवक्षिते| किन्तर्हि ? पाण्डुरोगकरणं प्रति कर्तृत्वाकर्तृत्वे| पित्तस्य च पाण्डुरोगकरणं प्रति मुख्यं कर्तृत्वम्, अतः 'पित्तप्रधानाः' इति युक्तमुक्तम्| ननु, यदि त्रयो दोषाः पाण्डुरोगहेतवः, कथं तर्हि वक्ष्यति ? (श्लो. ७) - "स पञ्चधा पृथग्दोषैः समस्तैर्मृत्तिकादनात्|" इति| उच्यते| सर्वः पाण्डुरोगस्त्रिदोषज एव| किन्तु हेतुविशेषैर्यो रूपभेदस्तेन पञ्चात्मकः शोफवत्, इति न किञ्चिदत्रायुक्तम्|
Reference
अष्टाङ्गहृदयम् निदानस्थानम् - १३. पाण्डुरोगशोफविसर्पनिदानध्यायः