Pittaja sopha lakshana: A.Hridaya
Sloka
पीतरक्तासिताभासः पित्तादाताम्ररोमकृत्|
शीघ्रानुसारप्रशमो मध्ये प्राग्जायते तनुः||३३||
सतृड्दाहज्वरस्वेददवक्लेदमदभ्रमः|
शीताभिलाषी विड्भेदी गन्धी स्पर्शासहो मृदुः||३४||
शीघ्रानुसारप्रशमो मध्ये प्राग्जायते तनुः||३३||
सतृड्दाहज्वरस्वेददवक्लेदमदभ्रमः|
शीताभिलाषी विड्भेदी गन्धी स्पर्शासहो मृदुः||३४||
सर्वाङ्गसुन्दरी व्याख्या
पित्ताच्छोफः पीतरक्तासिताभासादिलक्षणः| स च मध्ये-मध्यप्रदेशे, प्राक्-पूर्वं, जायते| प्राग्ग्रहणं पश्चात्सकलेऽपि देहदेशे स्यादिति द्योतयति|
Reference
अष्टाङ्गहृदयम् निदानस्थानम् - १३. पाण्डुरोगशोफविसर्पनिदानध्यायः