Pittaja visarpa lakshana: A.Hridaya

Sloka

पित्ताद्द्रुतगतिः पित्तज्वरलिङ्गोऽतिलोहितः||४८||

सर्वाङ्गसुन्दरी व्याख्या

पित्ताद्विसर्पो द्रुतगतिः-शीघ्रव्यापी, तथा पित्तज्वरलिङ्गोऽतिलोहितश्च स्यात्| पित्तज्वरलिङ्गानीव लिङ्गानि यस्य, इति सप्तम्युपमानपूर्वस्येत्यादिना बहुव्रीहिरुत्तरपदलोपश्च|

Reference

अष्टाङ्गहृदयम् निदानस्थानम् - १३. पाण्डुरोगशोफविसर्पनिदानध्यायः