Sopha nidana-samprapti: A.Hridaya
Sloka
सामान्यहेतुः शोफानां दोषजानां विशेषतः||२४||
व्याधिकर्मोपवासादिक्षीणस्य भजतो द्रुतम्|
अतिमात्रमथान्यस्य गुर्वम्लस्निग्धशीतलम्||२५||
लवणक्षारतीक्ष्णोष्णशाकाम्बु स्वप्नजागरम्|
मृद्ग्राम्यमांसवल्लूरमजीर्णश्रममैथुनम्||२६||
पदातेर्मार्गगमनं यानेन क्षोभिणाऽपि वा|
श्वासकासातिसारार्शोजठरप्रदरज्वराः||२७||
विषूच्यलसकच्छर्दिगर्भवीसर्पपाण्डवः|
अन्ये च मिथ्योपक्रान्तास्तैर्दोषा वक्षसि स्थिताः||२८||
ऊर्ध्वं शोफमधो बस्तौ मध्ये कुर्वन्ति मध्यगाः|
सर्वाङ्गगाः सर्वगतं प्रत्यङ्गेषु तदाश्रयाः||२९||
व्याधिकर्मोपवासादिक्षीणस्य भजतो द्रुतम्|
अतिमात्रमथान्यस्य गुर्वम्लस्निग्धशीतलम्||२५||
लवणक्षारतीक्ष्णोष्णशाकाम्बु स्वप्नजागरम्|
मृद्ग्राम्यमांसवल्लूरमजीर्णश्रममैथुनम्||२६||
पदातेर्मार्गगमनं यानेन क्षोभिणाऽपि वा|
श्वासकासातिसारार्शोजठरप्रदरज्वराः||२७||
विषूच्यलसकच्छर्दिगर्भवीसर्पपाण्डवः|
अन्ये च मिथ्योपक्रान्तास्तैर्दोषा वक्षसि स्थिताः||२८||
ऊर्ध्वं शोफमधो बस्तौ मध्ये कुर्वन्ति मध्यगाः|
सर्वाङ्गगाः सर्वगतं प्रत्यङ्गेषु तदाश्रयाः||२९||
सर्वाङ्गसुन्दरी व्याख्या
वक्ष्यमाणो गुर्वम्लस्निग्धादिको वर्गः [ शोफानां- ] श्वयथूनां निजानामागन्तूनां च, सामान्यहेतुः-उत्पत्तौ कारणम्| दोषजानां श्वयथूनां पुनरतिशयेन हेतुः, न तथाऽऽगन्तूनां, इति विशेषशब्देन द्योतयति| व्याधिकर्मोपवासादिभिः क्षीणस्य, व्याधिना-ज्वरादिना क्षीणस्य, तथा कर्मणा-पञ्चविधेन वमनविरेचननिरूहानुवासननस्याख्येन, तथोपवासेन, आदिग्रहणादन्येन च मार्गादिना क्षीणस्य, द्रुतं कृत्वा-सहसैव, गुर्वादिकं भजतः| अथेति समुच्चये| व्याध्यादिक्षीणलक्षणेभ्यः सकाशादन्यस्य स्वस्थादेरप्यतिमात्रं-मात्रामतिक्रम्य, भजतो दोषा वक्षसि स्थिता ऊर्ध्वं शोफं कुर्वन्ति, प्रकृतत्वाद्वक्षस ऊर्ध्वम्| बस्तौ स्थिता अधः शोफं कुर्वन्ति| मध्ये स्थिता दोषा मध्ये शोफं कुर्वन्ति| ग्राम्याणां-चटककुक्कुटादीनां, मांसं ग्राम्यमांसम्| वल्लूरं-शुष्कमांसम्| स्वप्नोऽत्राहःस्वप्नो जागरश्च रात्रिजागरो बोध्यः| यानेन-तुरगादिना, क्षोभिणा-शरीरसंरम्भजनकेन| तथा, श्वासादयः पाण्डुपर्यन्ता रोगाः प्राधान्येन| तथा, अन्येऽपि-श्वासकासादिव्यतिरिक्ता रोगाः, मिथ्योपक्रान्ताः-मिथ्योपचरिता अयथाशास्त्रमुपक्रान्ताः, शोफहेतवः| तैरपि दोषा वक्षसि स्थिता ऊर्ध्वं शोफं कुर्वन्ति| बस्तौ स्थिता अधो, मध्यगा मध्ये, सर्वाङ्गगाः सर्वगतं, प्रत्यङ्गेषु तदाश्रयाः, दोषाः शोफं कुर्वन्ति|
Reference
अष्टाङ्गहृदयम् निदानस्थानम् - १३. पाण्डुरोगशोफविसर्पनिदानध्यायः