Sopha purvarupa: A.Hridaya

Sloka

तत्पूर्वरूपं दवथुः सिरायामोऽङ्गगौरवम्|

सर्वाङ्गसुन्दरी व्याख्या

तस्य-श्वयथोः, पूर्वरूपं तत्पूर्वरूपम्| दवथुः-चक्षुरादिषु यस्तीव्र ऊष्मा स भण्यते| यदुक्तम्-"दवथुश्चक्षुरादिभ्यस्तीव्रमूष्मप्रवर्तनम्|" इति| तथा, सिरायामो-यत्र प्रदेशे श्वयथुरुद्बुभूषुस्तत्र सिराणां दैर्घ्यमिव| तथा, अङ्गगौरवं स्यात्|

Reference

अष्टाङ्गहृदयम् निदानस्थानम् - १३. पाण्डुरोगशोफविसर्पनिदानध्यायः