Sopha samprapthi: A.Hridaya

Sloka

---------------तेषां पूर्वमुपद्रवाः|
शोफप्रधानाः कथिताः स एवातो निगद्यते||२०||

पित्तरक्तकफान्वायुर्दुष्टो दुष्टान् बहिःसिराः|
नीत्वा रुद्धगतिस्तैर्हि कुर्यात्त्वङ्मांससंश्रयम्||२१||
उत्सेधं संहतं शोफं तमाहुर्निचयादतः|
सर्वं---------------------------------|२२|

सर्वाङ्गसुन्दरी व्याख्या

तेषां-पाण्डुरोगप्रकाराणां, पूर्वमुपद्रवा यतः शोफप्रधानाः कथिताः| अतः-अस्माद्धेतोः, पाण्डुरोगनिदानादनन्तरं शोफ एव भण्यते, न विसर्पः| शोफः प्रधानः-प्रथमो, येषां त एवं कथिताः| क्वः ? इहैव| यथोक्तम् (श्लो. ६)- "शूनाक्षिकूटः" इत्यादि| तथा (श्लो. १४)- "शूननाभिपादास्यमेहनः" इति| बहिर्भूताः सिरा बहिःसिराः,-बाह्याः सिराः| वायुः पित्तरक्तकफान् कर्मभूतान् बहिः सिराः कर्मभूता नीत्वोत्सेधं कुर्यात्| नयतेर्द्विकर्मकत्वात् पित्तादयो बहिःसिराश्च कर्म| यथा,-अजां नयति ग्राममिति| तेनायमर्थोऽवतिष्ठते-बहिःसिरासु पित्तादीन्नीत्वेति| किम्भूतो वायुः ? दुष्टः सन्,-कोपनैः कुपितः| किम्भूतमुत्सेधम् ? त्वक् च मांसं च त्वङ्मांसे, ते संश्रयः-आश्रयो, यस्य तम्| तैर्हीति हिशब्दोऽवधारणे| तैरेव-बहिःसिराः प्राप्तैः पित्तरक्तकफैः, रुद्धगतिः| अत एव संहतं-समन्ताद्धतं निश्चलमिव सम्पन्नं, उत्सेधम्| यतश्चैवं वातपित्तकफैः शोफः सञ्जायते, तस्मात्सर्वं शोफं निचयात्-दोषत्रयात्, आहुः|

Reference

अष्टाङ्गहृदयम् निदानस्थानम् - १३. पाण्डुरोगशोफविसर्पनिदानध्यायः