Sopha sadhyasadhyata: A.Hridaya

Sloka

नवोऽनुपद्रवः शोफः साध्योऽसाध्यः पुरेरितः||४२||
इति शोफनिदानम्||४||

सर्वाङ्गसुन्दरी व्याख्या

नवः-अचिरोत्पन्नः, तथाऽनुपद्रवः-उपद्रवरहितः, शोफः साध्यः| असाध्यः पुरा-विकृतिविज्ञानीये, ईरितः-अभिहितः| यथोक्तम् (हृ. शा. अ. ५|९२) - "अनेकोपद्रवयुतः पादाभ्यां प्रसृतो नरम्| नारीं शोफो मुखाद्धन्ति कुक्षिगुह्यादुभावपि||" इति|

Reference

अष्टाङ्गहृदयम् निदानस्थानम् - १३. पाण्डुरोगशोफविसर्पनिदानध्यायः