Tridoshaja visarpa lakshana : A.Hridaya

Sloka

सर्वजो लक्षणैः सर्वैः सर्वधात्वतिसर्पणः|

सर्वाङ्गसुन्दरी व्याख्या

सर्वैस्त्रिभिर्दोषैर्जातः सर्वजः-सन्निपातोद्भवो, वीसर्पः सर्वैर्लक्षणैरुपलक्षितः| स च सर्वान् धातूनतिशयेन सर्पति सर्वधात्वतिसर्पणः स्यात्|

Reference

अष्टाङ्गहृदयम् निदानस्थानम् - १३. पाण्डुरोगशोफविसर्पनिदानध्यायः