Upekshita visarpa lakshana: A.Hridaya

Sloka

स्वदोषलिङ्गैश्चीयन्ते सर्वे स्फोटैरुपेक्षिताः||४९||
ते पक्वभिन्नाः स्वं स्वं च बिभ्रति व्रणलक्षणम्|

सर्वाङ्गसुन्दरी व्याख्या

सर्वे च विसर्पा उपेक्षिताः-उपक्रमरहिताः, स्फोटैश्चीयन्ते-व्याप्यन्ते| किम्भूतैः ? स्वदोषलिङ्गैः-यथायथं स्वदोषलक्षणैः| ते च पक्वभिन्नाः स्वंस्वं-आत्मीयमात्मीयं दोषं(षजं), व्रणलक्षणं बिभ्रति-धारयन्ति| पूर्वं पक्वाः पश्चाद्भिन्नाः पक्वभिन्नाः, "पूर्वकाल" इत्यादिना समासः| "तत्र मारुतात्| श्यावः कृष्णोऽरुणः" (हृ. उ. अ. २५|५) इत्यादिग्रन्थनिर्दिष्टं व्रणलक्षणम्| "पित्तेन क्षिप्रजः" इत्यादिग्रन्थनिर्दिष्टम्| एवं कफादिलक्षणमपि बोध्यम्|

Reference

अष्टाङ्गहृदयम् निदानस्थानम् - १३. पाण्डुरोगशोफविसर्पनिदानध्यायः