Vataja sopha lakshana: A.Hridaya
Sloka
वाताच्छोफश्चलो रूक्षः खररोमाऽरुणासितः||३०||
सङ्कोचस्पन्दहर्षार्तितोदभेदप्रसुप्तिमान्|
क्षिप्रोत्थानशमः शीघ्रमुन्नमेत्पीडितस्तनुः||३१||
स्निग्धोष्णमर्दनैः शाम्येद्रात्रावल्पो दिवा महान्|
त्वक् च सर्षपलिप्तेव तस्मिंश्चिमिचिमायते||३२||

सर्वाङ्गसुन्दरी व्याख्या
वाताच्छोफश्चलादिलक्षणः|
Reference
अष्टाङ्गहृदयम् निदानस्थानम् - १३. पाण्डुरोगशोफविसर्पनिदानध्यायः