Visarpa sadhyasadhyata: A.Hridaya
Sloka
पृथग्दोषैस्त्रयः साध्या द्वन्द्वजाश्चानुपद्रवाः|
असाध्यो क्षतसर्वोत्थौ सर्वे चाक्रान्तमर्मकाः||६७||
शीर्णस्नायुसिरामांसाः प्रक्लिन्नाः शवगन्धयः|
असाध्यो क्षतसर्वोत्थौ सर्वे चाक्रान्तमर्मकाः||६७||
शीर्णस्नायुसिरामांसाः प्रक्लिन्नाः शवगन्धयः|
सर्वाङ्गसुन्दरी व्याख्या
पृथग्दोषैः-वातपित्तकफैः केवलैः, त्रयो विसर्पाः साधयितुं शक्याः| द्वन्द्वजाश्चानुपद्रवाः-कासवैवर्ण्यज्वरादिभिरुपद्रवैः (हृ. शा. अ. ५|९७) रहिताः, त्रयः साध्याः| क्षतसर्वोत्थौ द्वौ विसर्पावसाध्यौ, तथास्वभावत्वात्| सर्वे विसर्पाश्चाक्रान्तमर्मकाः-अभिभूतमर्मकाश्च, असाध्याः| तथा, शीर्णानि स्नायुसिरामांसानि यैस्तेऽप्यसाध्याः| तथा, प्रकर्षेण-अतिशयेन क्लिन्नाः, तथा शवगन्धयः-कुणपगन्धतुल्याः, ये तेऽप्यसाध्याः| शवस्येव गन्धो येषामिति "उपमानाच्च" इति गन्धस्येदादेशः|
Reference
अष्टाङ्गहृदयम् निदानस्थानम् - १३. पाण्डुरोगशोफविसर्पनिदानध्यायः