Visarpa samprapthi: A.Hridaya

Sloka

-----------तत्र दोषा यथायथम्|
प्रकोपणैः प्रकुपिता विशेषेण विदाहिभिः||४४||
देहे शीघ्रं विसर्पन्ति तेऽन्तरन्तःस्थिता बहिः|
बहिःस्था द्वितये द्विस्थाः---------------|४५|

सर्वाङ्गसुन्दरी व्याख्या

तस्मिन् विसर्पे यथायथं प्रकोपणैः-तिक्तोषणादिभिः, प्रकुपिता विशेषेण पुनर्विदाहिभिरत्यर्थं कृत्वा प्रकुपिता देहे शीघ्रं-आश्वेव, विसर्पन्ति| तेऽन्तःस्थिता अन्तर्विसर्पन्ति| बहिःस्था दोषा बहिर्विसर्पन्ति| द्वितयेऽन्तर्बहीरूपे, द्विस्थाः-उभयस्थाः सन्तो, विसर्पन्ति|

Reference

अष्टाङ्गहृदयम् निदानस्थानम् - १३. पाण्डुरोगशोफविसर्पनिदानध्यायः