Visarpa types: A.Hridaya

Sloka

स्याद्विसर्पोऽभिघातान्तैर्दोषैर्दूष्यैश्च शोफवत्|

सर्वाङ्गसुन्दरी व्याख्या

विसर्पः सर्व एव शोफवत्| दोषैः-पृथग्वातपित्तकफैर्द्वयैः समस्तैस्तथाऽभिघातात्, एवमभिघातान्तैर्दोषैः शोफवद्विसर्पसम्भवः| दूष्यैरपि शोफवत्| एवं "पित्तरक्तकफान् वायुः" (श्लो. २१) इत्यादिरपि ग्रन्थोऽत्र योज्यः|

Reference

अष्टाङ्गहृदयम् निदानस्थानम् - १३. पाण्डुरोगशोफविसर्पनिदानध्यायः