Visarpa triadhishtana: A.Hridaya
Sloka
त्र्यधिष्ठानं च तं प्राहुर्बाह्यान्तरुभयाश्रयात्||४३||
यथोत्तरं च दुःसाध्याः------------------|
यथोत्तरं च दुःसाध्याः------------------|
सर्वाङ्गसुन्दरी व्याख्या
तं च-विसर्पं, त्र्यधिष्ठानं प्राहुः, आत्रेयादय इति शेषः| [ कस्मात् ? ] बाह्यान्तरुभयाश्रयात्-पूर्वार्जितकर्मवशात् कदाचिद्बाह्याश्रयो विसर्पो जायते, बाह्य आश्रयो यस्य स तथा, एवं कदाचिदन्तराश्रयः, कदाचिदुभयाश्रयः, [ तस्मात् ]| ते च बाह्यान्तरुभयाश्रया विसर्पा यथोत्तरं दुःसाध्याः| दुःखेन साध्यन्त इति दुःसाध्याः|
Reference
अष्टाङ्गहृदयम् निदानस्थानम् - १३. पाण्डुरोगशोफविसर्पनिदानध्यायः