Vishaja sopha lakshana: A.Hridaya

Sloka

विषजः सविषप्राणिपरिसर्पणमूत्रणात्|
दंष्ट्रादन्तनखापातादविषप्राणिनामपि||४०||
विण्मूत्रशुक्रोपहतमलवद्वस्त्रसङ्करात्|
विषवृक्षानिलस्पर्शाद्गरयोगावचूर्णनात्||४१||
मृदुश्चलोऽवलम्बी च शीघ्रो दाहरुजाकरः|

सर्वाङ्गसुन्दरी व्याख्या

विषजः शोफः सविषाणां प्राणिनामङ्गे परिसर्पणात्-गमनात्, तथा तेषामेव मूत्रणात्| तथा, दंष्ट्रादन्तनखानामापातात् अविषप्राणिनामपि शोफः स्यात्| अपिशब्दान्न केवलं सविषप्राणिनाम्| तथा, विण्मूत्रशुक्रैरुपहतं-तत्स्पर्शाद्दूषितमप्रशस्तम्| विण्मूत्रशुक्रोपहतं च तन्मलवच्च विण्मूत्रशुक्रोपहतमलवत्, तथाविधं च तद्वस्त्रं च, तस्य सङ्करः-संस्पर्शः, तस्मादपि शोफः स्यात्| तथा विषवृक्षाणामनिलस्तस्य संस्पर्शात्, गरयोगस्यावचूर्णनं-अवध्वंसनं, तस्माच्च मृद्वादिगुणयुक्तः श्वयथुः स्यात्|

Reference

अष्टाङ्गहृदयम् निदानस्थानम् - १३. पाण्डुरोगशोफविसर्पनिदानध्यायः